LAXMI SUKTAM
लक्ष्मी सूक्तम्पद्मानने पद्मिनि पद्मपत्रे पद्ममप्रिये पदमदलायताक्षि ।
विश्वप्रिये विश्वमनोऽनुकूले त्वत्पाद्मं मयि सन्निधत्स्व ।। 1 ।।
पद्मानने पद्मउरु पद्माक्षी पदमसंभवे ।
तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् ।। 2 ।।
अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवी सर्वकामाश्च देहि मे ।। 3 ।।
पुत्रं पौत्रं धनं धान्यं हस्त्यश्वादि गवेरथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ।। 4 ।।
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो वृहस्पतिर्वरुणो धनमस्तु मे ।। 5 ।।
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ।। 6 ।।
न क्रोधो न च मात्सर्य न लोभो नाशुभामतिः।
भवन्ति कृतपुण्यानां भक्तानां श्री सूक्तजापिनाम् ।। 7 ।।
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ।। 8 ।।
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मीं प्रियसखीं देवी नमाम्यच्युतवल्लभाम् ।। 9 ।।
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै ।
च धीमहि, तन्ने लक्ष्मीः प्रचोदयात् ।। 10 ।।
आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः।
ऋषयश्च श्रियः पुत्राः मयि श्रीर्देविदेवता मताः।। 11 ।।
ऋणरोगादिदारिद्रय पापक्षुदपमृत्यवः।
भयशोकमनस्ताप नश्यन्तु मम सर्वदा ।। 12 ।।
श्री वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।
धान्यं धनं पशु बहुतपुत्रलाभं शतसंवत्सरं दीर्घमायुः।। 13 ।।
इति ऋग्वेदोक्तं लक्ष्मी सूक्तम् समाप्त ।।