


NAVGRAH STOTRAM
।। नवग्रह स्तोत्रम् ।।जपाकुसुमसंकाशं काश्यपेय महाद्युतिम् । तमोऽरिं सर्वपापन्घं प्रणतोऽस्मि दिवाकरम् ।।1।।
दघिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ।।2।।
धरणीगर्भसम्भूतं विद्युतकान्तिसमप्रभम् । कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम् ।।3।।
प्रियंगुकलिकाश्यां रुपेणाप्रणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ।।4।।
देवानां च ऋषीणां च गुरुं कांचनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।।5।।
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम् ।।6।।
नीलांजनसमाभां रविपुत्रं यमाग्रजम् । छायामार्तण्ड़सम्भूतं तं नमामि शनैश्चरम् ।।7।।
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ।।8।।
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतु प्रणमाम्यहम् ।।9।।
इति व्यासमुखोन्दीतं यः पठेत्सुसमाहितः . दिवा वा यदि वा रात्रौ विध्नशान्तिर्भविष्यति ।।10।।
नरनारीनृपाणां च भवेद्दुःस्वप्नाशनम्. ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्द्धनम् ।।11।।
।। इति श्री वेद व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् ।।
